aglasem.com
Schools Admission Mock Test Playground
ClassChoose class
StateSelect state

Kerala SSLC Sanskrit Notes

Download Kerala SSLC Sanskrit Notes PDF. Here are Secondary Class 10 Chapter Wise Quick Revision Notes. More Detail
Kerala SSLC Sanskrit Notes - Page 1 of 29

Finished viewing? Save it for later —

Download Kerala SSLC Sanskrit Notes (PDF · 29 pages)
Downloaded 181 times

About Kerala SSLC Sanskrit Notes

Kerala SSLC Sanskrit Notes is available here for free download. Published by Kerala Board for Class 10, this notes can be viewed online or downloaded as a PDF (29 pages). Candidates preparing for Class 10 can use Kerala SSLC Sanskrit Notes to understand the exam pattern, the type of questions asked, and the overall difficulty level.

Frequently Asked Questions

How can I download Kerala SSLC Sanskrit Notes?

Open this page and click the Download button to save Kerala SSLC Sanskrit Notes as a PDF. It is completely free on AglaSem Docs.

Is Kerala SSLC Sanskrit Notes free to download?

Yes. Kerala SSLC Sanskrit Notes can be viewed online and downloaded as a PDF free of cost on AglaSem Docs.

How many pages does Kerala SSLC Sanskrit Notes have?

Kerala SSLC Sanskrit Notes contains 29 pages, which you can read online or download together as a single PDF.

Where can I find more Class 10 study material?

You can find more Class 10 question papers, sample papers, syllabus, and answer keys on AglaSem Docs.

Kerala SSLC Sanskrit Notes – Text

Read the full text of this notes below — useful to quickly search, copy and reference the content online without downloading the PDF.

📄 View text version (29 pages)

Page 1

SSLC

NOTES
Chapter Wise

Page 2

विषयानुक्रमणिका

पाठस्य नाम पुटसंख्या

आयुरारोग्यसौख्यम् 3 - 5
दीनवत्सला जननी 6 - 8
मधुमान् नो वनस्पतिः 9 - 10
कनकधारा 11 - 15
जयन्ति ते सुकृ तिनः 16 - 18
रागसुधारस.... 19 - 20
काव्यमुक्तावलिः 21 - 23
शिवास्ते सन्तु पन्थानः 24 - 25
ईशोपदेशः 26 - 27
प्राप्यवरान् निबोधत 28 - 29

2

Page 3

प्रथमः पाठः
आयुरारोग्यसौख्यम्

1. कोष्ठकात् समुचितमुत्तरं चित्वा लिखत ।
क) सुखदुःखयोः कर्ता कः ?
(मनः, बुद्धिः, आत्मा)
ख) आरोग्यम् इत्यस्य समानार्थकं पदं किम्?
(दाक्ष्यम्, स्वास्थ्यम्, श्रुतम्)
ग) ईर्ष्याभयक्रोधेन सेव्यमानं किम् न परिपाकमेति ?
(अन्नम्, धनम्, जलम्)
घ) भूगतौ अश्विनीसुतौ कौ ?
(सुखदुःखौ, परिश्रममिताहारौ,शीतोष्णौ)
ङ) तुष्टिः के षाम् उत्तमं भवति ?
(लाभानाम्, सुखानाम्, धनानाम्)
च) एति इत्यत्र लकार कः ?
(लट्, लङ्, लोट्)
2. श्लोकं पठित्वा अधोदत्तप्रश्नानाम् उत्तराणि लिखत-
परिश्रमो मिताहारो
भूगतावश्विनीसुतौ I
तावनादृत्य नैवाहं
वैद्यमन्यं समाश्रये II
क) भूगतौ अश्विनीसुतौ कौ ?
ख) कं न समाश्रये ?
ग) अस्मिन् श्लोके क्रियापदं किम् ?
घ) अधोरेखाङ्गितपदं सन्धिच्छेदं कु रुत I
ङ) श्लोके व्यायामः इत्यर्थे प्रयुक्तं पदं किम् ?
3. गद्यक्रमं पूरयत ।
परिश्रमः ………… भूगतौ ………… । तौ ………… अन्यं ………… अहं नैव समाश्रये I

3

Page 4

4.उदाहरणानुसारम् एकपदं लिखत
उदा - मितश्च असौ आहारः च - मिताहारः I
क) हितश्च असौ आहारः च = ………………………… I
ख) अल्पश्च असौ आहारः च = ………………………… I
5. श्लोकम् पठित्वा अधोदत्तप्रश्नानाम् उत्तराणि लिखत ।
आत्मानमेव मन्येत
कर्तारं सुखदुःखयोः I
तस्माच्छ्रे यस्करं मार्गं
प्रतिपद्येत न त्रसेत् II
क) अस्मिन् श्लोके क्रियापदं किम् ?
ख) सुखदुःखयोः कर्तारं इति कं मन्येत ?
ग) कीदृशं मार्गं प्रतिपद्येत ?
घ) तस्माच्छ्रे यस्करं इत्यस्य पदच्छेदः कः ?
6. गद्यक्रमं पूरयत ।
सुखदुःखयोः ……………… आत्मानमेव …………… I तस्मात् ……………… मार्गं ……… न त्रसेत् I
7. श्लोकं पठित्वा अधोदत्तप्रश्नानाम् उत्तराणि लिखत ।
धन्यानामुत्तमं दाक्ष्यं
धनानामुत्तमं श्रुतम् I
लाभानां श्रेष्ठमारोग्यम्
सुखानां तुष्टिरुत्तमा II
क) धन्यानामुत्तमं किम् ?
ख) के षां उत्तमं श्रुतम् ?
ग) लाभानां किं श्रेष्ठम् ?
घ) तुष्टिः के षाम् उत्तमम् ?
ङ) तुष्टिरुत्तमा इत्यस्य पदच्छेदः कः ?
8. समुचितमाशयं चित्वा लिखत ।
ईर्ष्याभयक्रोधसमन्वितेन
लुब्धेन रुग्दैन्यनिपी़डितेन I
विद्वेषयुक्ते न च सेव्यमानं

अन्नं न सम्यक् परिपाकमेति II

4

Page 5

क) स्वस्थचित्तेन सेव्यमानः आहारः आरोग्याय भवति I
ख) स्वकर्मणः फलं स्वशरीरेणैव अनुभूयते I
ग) व्यायामः आहारमितत्वं च आरोग्याय भवति I
9. सन्धिच्छेदं कु रुत ।
उदा - तावनादृत्य = तौ + अनादृत्य ।
क) उभावपि = -------- + --------।
ख) भूगतावश्विनीसुतौ = ------- + --------।

उत्तराणि

1. क) आत्मा। ख) स्वास्थ्यम् ।ग) अन्नम् । घ)परिश्रममिताहारौ । ङ) सुखानाम् ।
च) लट् ।
2. क) परिश्रममिताहारौ ।ख) वैद्यमन्यम् ।ग) समाश्रये ।घ) तौ + अनादृत्य ।ङ)
परिश्रमः।
3. परिश्रमः मिताहारः भूगतौ अश्विनीसुतौ (भवतः)I तौ अनादृत्य अन्यं वैद्यम् अहं नैव
समाश्रयेI
4. क) हिताहारः।ख) अल्पाहारः।
5. क) त्रसेत् I ख) आत्मा।ग) श्रेयस्करं मार्गं ।तस्मात्+ श्रेयस्करम् ।
6. सुखदुःखयोः कर्तारम् आत्मानमेव मन्येत I तस्मात् श्रेयस्करं मार्गं प्रतिपद्येत न
त्रसेत् I
7. क)दाक्ष्यं ।ख) धनानाम् ।ग) आरोग्यम् । घ) सुखानाम् ।ङ) तुष्टिः + उत्तमा ।
8. स्वस्थचित्तेन सेव्यमानः आहारः आरोग्याय भवति I
9. क. उभौ + अपि । ख. भूगतौ + अश्विनीसुतौ ।

5

Page 6

द्वितीयः पाठः
दीनवत्सला जननी
1. कोष्ठकात् समुचितमुत्तरं चित्वा लिखत ।
क) सर्वधेनूनां माता का ?
( सुरसा, गौरी, सुरभिः, लक्ष्मीः)
ख) दीनवत्सला जननी इति पाठः महाभारते कस्मिन् पर्वणि अन्तर्भवति ?
( वनपर्वणि, उद्योगपर्वणि, सभापर्वणि, भीष्मपर्वणि)
ग) कृ षके ण ताडितं वृषभं दृष्ट्वा का रुरोद ?
( इन्द्रः, कृ षकः, सुरभिः, आखण्डलः)
घ) "अयि शुभे ! किमेवं रोदिषि" ? - कस्य वचनमिदम् ?
( सुराधिपस्य, देशाधिपस्य, सुरभेः, नराधिपस्य)
ङ) वृषभः इत्यस्य समानार्थकं पदं किम् ?
(बलीवर्दः, गर्दभः, अश्वः, गजः)
2.उदाहरणानुसारं वाक्यं परिवर्तयत ।
उदा- मातुः बहवः पुत्राः सन्ति I दीने पुत्रे कृ पार्द्रहृदया अस्ति ।
यद्यपि मातुः बहवः पुत्राः सन्ति तथापि दीने पुत्रे कृ पार्द्रहृदया अस्ति I
क) अहं पाठं सुष्ठु अपठम् । पूर्णमङ्कं न सम्प्राप्तवान् ।
ख) जनाः चित्रशालाम् अगच्छन् । तत्र वैद्युतिः नासीत् ।
3. पट्टिकां पूरयत -
लङ् लट् लोट्

अपठत् पठति पठतु

……………… गच्छति गच्छतु

अभवत् …………… भवतु

अनयत् नयति …………

सम्बोधनारूपाणां परिचायनम् -
शुभे! , वत्से! , भो वासव! , भद्रे !

6

Page 7

4. शतृ-शानजन्तरूपाणि विविच्य पट्टिकां लिखत-

( नुद्यमानः, गच्छन्, पठन्, गम्यमानः, जल्पमानः, प्रेरयन्, कम्पमानः, ताडयन्,)
शत्रन्तरूपाणि शानजन्तरूपाणि

गच्छन् नुद्यमानः

5. पदच्छेदं लिखत -
नोत्थितः= न + उत्थितः ।
क) नोचितः= ……… + …………।
ख) नोदितः= ………… + …………।
6.उदाहरणानुसारं विग्रहं लिखत ।
सुराधिपः = सुराणाम् अधिपः ।
क) धनाधिपः - …………… ।
ख) जनाधिपः - ………………।
7. समानार्थकपदानि चित्वा लिखत ।
(ऋषभः, कृ षकः, वासवः, इन्द्रः, कृ षीवलः, बलीवर्दः)
ऋषभः कृ षकः वासवः

उत्तराणि ।

1. क) सुरभिः।ख) वनपर्वणि ।ग) सुरभिः ।घ) सुराधिपस्य । ङ) बलीवर्दः ।
2. क. यद्यपि अहं पाठं सुष्ठु अपठम् तथापि पूर्णमङ्कं न सम्प्राप्तवान् ।
ख. यद्यपि जनाः चित्रशालाम् अगच्छन् तथापि तत्र वैद्युतिः नासीत् ।

7

Page 8

3.
लङ् लट् लोट्

अपठत् पठति पठतु

अगच्छत् गच्छति गच्छतु

अभवत् भवति भवतु

अनयत् नयति नयतु

4.

शत्रन्तरूपाणि शानजन्तरूपाणि

गच्छन् नुद्यमानः
पठन् गम्यमानः
प्रेरयन् जल्पमानः
ताडयन् कम्पमानः

5. क) न + उचितः ।
ख) न + उदितः ।
6. क) धनानाम् अधिपः ।
ख) जनानाम् अधिपः ।

7
ऋषभः कृ षकः वासवः

बलीवर्दः कृ षीवलः इन्द्रः

8

Page 9

तृतीयः पाठः
मधुमान् नो वनस्पतिः
1. कोष्ठकात् समुचितमुत्तरं चित्वा लिखत ।
क) सस्यविज्ञानमधिकृ त्य सूचना महाभारतस्य कस्मिन् पर्वणि दृश्यते ?
( वनपर्वणि, शान्तिपर्वणि, सभापर्वणि, भीष्मपर्वणि)
ख) दशपुत्रसमो द्रुमः - इदं वाक्यं कस्मात् ग्रन्थात् उद्धृतम् ?
(दशकु मारचरितात्, रामायणात्, महाभारतात्, वृक्षायुर्वेदात्)
ग) वृक्षायुर्वेदस्य कर्ता कः ? ( धनपालः, सुरपालः, शिशुपालः, महीपालः)
घ) फलपाकान्तः सस्यविभागः कः ? ( वीरुत्, वनस्पतिः, ओषधिः, वृक्षः)
ङ) प्रतानैः प्रसारिता का ? ( वीरुत्, वनस्पतिः, ओषधिः, वृक्षः )
च) अव्यक्तपुष्पः यः फलति सः ………………… । ( वीरुत्, वनस्पतिः, ओषधिः, वृक्षः)
छ) फलात्पूर्वं पुष्पं स्पष्टं दृश्यते …………………… ।( वनस्पतिः, वीरुत्, वृक्षः, ओषधिः)
ज) दशपुत्रसमः कः ? (पुत्रः, द्रुमः, वापी, सरः)
झ) सस्यानि प्रमुखतया कतिविधानि भवन्ति ?
(द्विविधानि , त्रिविधानि, चतुर्विधानि, पञ्चविधीनि)

2. पदच्छेदं लिखत ।
जागरूकोऽभवत् - जागरूकः + अभवत् I
क) पण्डितोऽपि - ………… + ………… I
ख) कोऽपि - ………… + ………… I
ओषधिश्च - ओषधिः + च ।
क) भूपतिश्च - ………… + ………… I
ख) कविश्च - ………… + …………… I
हेतुरभूत् - हेतुः + अभूत् I
क) गुरुरयम् - ……… + ………… I
ख) विष्णुरपि - ……… + ………… I
काव्येऽस्मिन् - काव्ये + अस्मिन् I
क) नाटके ऽस्मिन् - ……… + …………… I

ख) लोके ऽस्मिन् - ………… + ……………I

9

Page 10

3. पट्टिकां पूरयत ।
(कर्क टी, आम्रः, व्रीहिः, अश्वत्थः, नालिके रः, पनसः, इक्षुः, कू श्माण्डः)
वृक्षः वनस्पतिः वीरुत् ओषधिः

आम्रः पनसः कू श्माण्डः इक्षुः

4.यथोचितं योजयत ।
चरकसंहिता सुरपालः
ऋषभः वनस्पतिः
वृक्षायुर्वेदः शानजन्तम्
नुद्यमानः बलीवर्दः
पनसः चरकः
उत्तराणि
1. क) शान्तिपर्वणि, ख) वृक्षायुर्वेदात्, ग) सुरपालः, घ) ओषधिः, ङ) वीरुत्,
च) वनस्पतिः, छ) द्रुमः, ज) वृक्षः, झ) चतुर्विधानि ।
2. क) पण्डितः + अपि I ख) कः + अपि ।
क) भूपतिः + च I ख) कविः + च ।
क) गुरुः + अयम् I ख) विष्णुः + अपि ।
क) नाटके + अस्मिन् I ख) लोके + अस्मिन् I
3.
वृक्षः वनस्पतिः वीरुत् ओषधिः

आम्रः पनसः कू श्माण्डः इक्षुः

नालिके रः अश्वत्थः कर्क टी व्रीहिः
4) चरकसंहिता चरकः
ऋषभः बलीवर्दः
वृक्षायुर्वेदः सुरपालः
नुद्यमानः शानजन्तम्
पनसः वनस्पतिः

10

Page 11

चतुर्थः पाठः
कनकधारा
1) कोष्ठकात् समुचितमुत्तरं निर्धार्य लिखत।
क) कनकधारास्तवम् के न विरचितम्? (श्रीशङ्करेण, माधवविद्यारण्यस्वामिना, सुरपालेन)
ख) शङ्करदिग्विजयम् नाम काव्यं कस्मिन् काव्यविभागे अन्तर्भवति ?
(खण्डकाव्ये, महाकाव्ये, चरित्रकाव्ये)
ग) शङ्करदिग्विजयस्य कर्ता कः ? ( सुरपालः, श्रीशङ्करः, माधवविद्यारण्यस्वामी)
घ) श्रीशङ्कराचार्यस्य चरितमवलम्ब्य रचितम् काव्यं किम् ?
(सौन्दर्यलहरी, शङ्करदिग्विजयम्, शिवानन्दलहरी)
ङ) सह शब्दयोगे का विभक्तिः ? (पञ्चमी, तृतीया, द्वितीया)
च) अद्वैतचिन्ताप्रतिष्ठापकः कः ? (श्रीशङ्करः, श्रीनारायणगुरुः, माधवविद्यारण्यस्वामी)
छ) धिक् शब्दयोगे का विभक्तिः ? (पञ्चमी, तृतीया, द्वितीया)
2) यथोचितं योजयत ।
क) श्रीशङ्करः धात्रीफलम्
शङ्करदिग्विजयम् दरिद्रः
आमलकम् कनकधारा
वटुः महाकाव्यम्
धनहीनः ब्रह्मचारी
ख)
वरिवस्याम् भिक्षा
निशम्य ऐश्वर्यदेवता
मुरभित्कु टुम्बिनी शुश्रूषाम्
भैक्ष्यम् ल्यबन्तम्
3) उदाहरणानुसारं विग्रहवाक्यं लिखत ।
उदा -गुरुमहिमा - गुरोः महिमा ।
क. तरुमहिमा = --------------।
उदा -सामोदम् - आमोदेन सह वर्तते ।
ख. साश्चर्यम् - ---------------।

ग. सादरम् - ---------------।

11

Page 12

4) एकपदं लिखत ।
उदा - धनेन हीनः - धनहीनः ।
क. ज्ञानेन हीनः = --------------।
ख. धैर्येण हीनः = --------------।
5) उदाहरणानुसारं पदच्छेदं लिखत ।
उदा - उदीरयन्त्यसौ - उदीरयन्ती + असौ ।
क) विलपन्त्यसौ - ----- + ----।
उदा -धिगिदम् - धिक् + इदम् ।
ख) वागियम् - ----- + -----।

6) श्लोकं पठित्वा अधोदत्तप्रश्नानाम् उत्तराणि लिखत ।
स मुनिर्मुरभित्कु टुम्बिनीं
पदचित्रैर्नवनीतकोमलैः ।
मधुरैरुपतस्थिवांस्तवै-
र्द्विजदारिद्र्यदशानिवृत्तये II
क) अस्मिन् पद्ये क्रियापदं किम् ?
ख किमर्थं शङ्करः ऐश्वर्यदेवताम् उपासितवान् ?
ग) कः मधुरैः स्तवैः लक्ष्मीम् उपासितवान् ?
घ) ऐश्वर्यदेवता इत्यर्थकं पदं श्लोकात् चित्वा लिखत ।

7) श्लोकं पठित्वा अधोदत्तप्रश्नानाम् उत्तराणि लिखत ।
अमुना वचनेन तोषिता
कमला तद़्भवनं समन्ततः।
कनकामलकै रपूरय-
ज्जनताया हृदयं च विस्मयैः II
क) अस्मिन् पद्ये क्रियापदं किम् ?
ख) का तोषिता अभवत् ?
ग) कस्याः हृदयं विस्मयैःअपूरयत् ?
घ) परितः इति पदस्य समानार्थकं पदं श्लोकात् चित्वा लिखत ?

12

Page 13

8) श्लोकं पठित्वा अधोदत्तप्रश्नानाम् उत्तराणि लिखत ।
स हि जातु गुरोः कु ले वसन्
सवयोभिः सह भैक्ष्यलिप्सया ।
भगवान् भवनं द्विजन्मनो
धनहीनस्य विवेश कस्यचित् ।।
क) भगवान् कीदृशस्य द्विजन्मनः भवनं विवेश ?
ख) भगवान् किमर्थं द्विजन्मनः भवनं विवेश ?
ग) अस्मिन् पद्ये क्रियापदं किम् ?
घ) भगवान् कैः सह द्विजन्मनः भवनं विवेश ?
9) श्लोकं पठित्वा अधोदत्तप्रश्नानाम् उत्तराणि लिखत ।
विधिना खलु वञ्चिता वयं
वितरीतुं वटवे न शक्नुमः ।
अपि भैक्ष्यमकिञ्चनत्वतो
धिगिदं जन्म निरर्थकं गतम् II
क) कस्मै भैक्ष्यं वितरीतुं न शक्नुमः ?
ख) वयं के न वञ्चिताः ?
ग) श्लोके निष्प्रयोजनम् इत्यर्थे प्रयुक्तं पदं किम् ?
घ) धिगिदं इत्यस्य पदच्छेदं लिखत ?
10. श्लोकं पठित्वा गद्यक्रमं पूरयत।
तमवोचत तत्र सादरं
वटुवर्यं गृहिणः कु टुम्बिनी ।
कृ तिनो हि भवादृशेषु ये
वरिवस्यां प्रतिपादयन्ति ते II
तत्र --- कु टुम्बिनी तं --- सादरं अवोचत । ये --- वरिवस्यां प्रतिपादयन्ति ते ---- हि।
11) "अपरेषां कृ ते प्रयोजनरहितं जन्म निन्दनीयम्“-इत्याशयप्रतिपादकं श्लोकं चित्वा
लिखत।
क) स हि जातु गुरोः कु ले वसन्
सवयोभिः सह भैक्ष्यलिप्सया ।
भगवान् भवनं द्विजन्मनो

धनहीनस्य विवेश कस्यचित् II

13

Page 14

ख) विधिना खलु वञ्जिता वयं
वितरीतुं वटवे न शक्नुमः ।
अपि भैक्ष्यमकिञ्जनत्वतो
धिगिदं जन्म निरर्थकं गतम् II
12) "करुणं वचनं आकर्ण्य सः दयार्द्रह्रदयः अभवत् “- इत्याशयप्रतिपादकं श्लोकं चित्वा
लिखत ।
क) इति दीनमुदीरयन्त्यसौ
प्रददावामलकं व्रतीन्दवे ।
करुणं वचनं निशम्य सोऽ-
प्यभवज्ज्ञाननिधिर्दयार्द्रधीः II
ख) तमवोचत तत्र सादरं
वटुवर्यं गृहिणः कु टुम्बिनी ।
कृ तिनो हि भवादृशेषु ये
वरिवस्यां प्रतिपादयन्ति ते II
13. श्लोकस्य उचितमाशयं चित्वा लिखत ।
तमवोचत तत्र सादरं
वटुवर्यं गृहिणः कु टुम्बिनी ।
कृ तिनो हि भवादृशेषु ये
वरिवस्यां प्रतिपादयन्ति ते II
क) अपरेषां कृ ते प्रयोजनरहितं जन्म निरर्थकमेव ।
ख) ब्रह्मचारिश्रेष्ठानां पूजां कु र्वन्तः पुण्यवन्तः एव ।
ग) स्तवेन सन्तुष्टा कमला ब्राह्मणस्य भवनं सुवर्णामलकैः पूरयामास ।
उत्तराणि ।
1. क.श्रीशङ्करेण, ख. महाकाव्ये, ग. माधवविद्यारण्यस्वामी, घ. शङ्करदिग्विजयम्, ङ.
तृतीया च. श्रीशङ्करः, छ. द्वितीया ।
2.. क. श्रीशङ्करः कनकधारा
शङ्करदिग्विजयम् महाकाव्यम्
आमलकम् धात्रीफलम्
वटुः ब्रह्मचारी

धनहीनः दरिद्रः

14

Page 15

ख. वरिवस्याम् शुश्रूषाम्
निशम्य ल्यबन्तम्
मुरभित्कु टुम्बिनी ऐश्वर्यदेवता
भैक्ष्यम् भिक्षा

3. क. तरोः महिमा । ख. आश्चर्यॆण सह वर्ततॆ । ग. आदरेण सह वर्ततॆ ।
4. क. ज्ञानहीनः।, ख. धैर्यहीनः।
5. क.विलपन्ती + असौ ।ख. वाक् + इयम् ।
6. क. उपतस्थिवान् । ख. द्विजदारिद्र्यदशानिवृत्तये ।ग. सः मुनिः।
घ.मुरभित्कु टुम्बिनी।
7. क. अपूरयत्, ख. कमला, ग. जनतायाः। घ. समन्ततः।
8. क.धनहीनस्य ।, ख. भैक्ष्यलिप्सया ।, ग. विवेश।, घ. सवयोभिः।
9. क.वटवे। ख. विधिना। ग. निरर्थकम्। घ. धिक् + इदं।

10. तत्र गृहिणः कु टुम्बिनी तं वटुवर्यं सादरं अवोचत । ये भवादृशेषु वरिवस्यां
प्रतिपादयन्ति ते कृ तिनः हि।

11.(ख) विधिना खलु वञ्जिता वयं
वितरीतुं वटवे न शक्नुमः ।
अपि भैक्ष्यमकिञ्जनत्वतो
धिगिदं जन्म निरर्थकं गतम् ।।
12.(क) इति दीनमुदीरयन्त्यसौ
प्रददावामलकं व्रतीन्दवे ।
करुणं वचनं निशम्य सोऽ-
प्यभवज्ज्ञाननिधिर्दयार्द्रधीः।।

13. ब्रह्मचारिश्रेष्ठानां पूजां कु र्वन्तः पुण्यवन्तः एव ।

15

Page 16

पञ्चमः पाठः
जयन्ति ते सुकृ तिनः।

1. कोष्ठकात् समुचितमुत्तरं चित्वा लिखत।

क) "स्वराज्यं अस्माकं जन्माधिकारः एव"- कस्य वचनमिदम्?
(डा.एस् राधाकृ ष्णस्य, बालगङ्गाधरतिलकस्य, महात्मागान्धिनः)
ख) भारतस्य प्रथमः उपराष्ट्रपतिः कः?
(डा.राजेन्द्रप्रसाद्, डा.एस् राधाकृ ष्णः,जेवहर्लाल् नेह्रु)
ग) के न विरचितम् ?
(डा.एस्. राधाकृ ष्णः, जेवहर्लाल् नेह्रु, बालगङ्गाधरतिलकः)
घ) महात्मागान्धिनः आत्मकथायाः नाम किम्?
(गीतारहस्यम्, सत्यशोधनम्, नवभारतम्)
ङ) वेदानां कालनिर्णयं कर्तुं प्रयतितेषु अन्यतमः कः?
(बालगङ्गाधरतिलकः, महात्मागान्धिः, डा.एस् राधाकृ ष्णः)
च) वेदान्तस्य धार्मिकता नाम ग्रन्थस्य कर्ता कः?
(डा. राजेन्द्रप्रसादः, महात्मागान्धिः, डा.एस्. राधाकृ ष्णः)
छ) कर्मण्येवाधिकारस्ते मा फलेषु कदाचन - इति वचनं कस्मात् ग्रन्थात् उद्धृतम्?
(रामायणात्, हितोपदेशात्, भगवद्गीतायाः)
ज) ऋते शब्दयोगे का विभक्तिः भवति?
(पञ्चमी, चतुर्थी, तृतीया)
झ) ओक्स्फोर्ड् सर्वकलाशायां प्रथमतया पाठनाय कः अगच्छत् ?
(डा. राजेन्द्रप्रसादः, महात्मागान्धिः, डा.एस् राधाकृ ष्णः)

2..यथोचितं योजयत।
बालगङ्गाधरतिलकः आत्मकथा
डा. एस् राधाकृ ष्णः ओक्टोबर् २
सत्यशोधनम् गीतारहस्यम्

महात्मागान्धिः वेदान्तस्य धार्मिकता

16

Page 17

3. उदाहरणानुसारं विश्लेषयत।
उदा - पुत्रोऽपि= पुत्रः + अपि ।
क. बालोऽपि = ---- + -----।
ख. पराजितोऽपि= ---- + -----।
ग. ततोऽपि= - ---- + -----।
4. उदाहरणानुसारम् एकपदं लिखत ।
उदा -पुरुषेषु उत्तमः = पुरुषोत्तमः ।
क. नृपेषु उत्तमः= ---------।
ख. नरेषु उत्तमः= ---------।
ग. सर्वेषुु उत्तमः= ---------।
5. उदाहरणानुसारम् एकपदं लिखत ।
उदा- राष्ट्रस्य पिता = राष्ट्रपिता ।
क. राष्ट्रस्य पतिः= ---------।
ख. कु लस्य पतिः= ---------।
ग. राज्यस्य पालकः= ---------।
6.. उदाहरणानुसारं वाक्यं परिवर्त्य लिखत ।
उदा- महानसे लवणं नास्ति । अन्यत् सर्वं अस्ति ।
महानसे लवणात् ऋते अन्यत् सर्वं अस्ति ।
क. भोजनाय पायसं नास्ति। अन्यत् सर्वं अस्ति ।
ख. स्यूते पुस्तकं नास्ति । अन्यत् सर्वं अस्ति ।
ग. आपणे पुष्पं नास्ति । अन्यत् सर्वं अस्ति ।
7.सूचनानुसारं जीवनचरितं लिखत ।
सूचनाः
नाम ए.पि.जे. अब्दुल् कलाम्।
जन्म 1931 ओक्टोबर् 15 तमिल्नाट् राज्ये रामेश्वरम् ।
पितरौ जैनुलुब्दीन् आषियम्मा च।
प्रशस्तिः भारतस्य राष्ट्रपतिः।
पुरस्काराः भारतरत्नम्, पद्मविभूषण्, पद्मभूषण्।
मृत्युः 2015 जूलै 27.

17

Page 18

उत्तराणि ।

1. क. बालगङ्गाधरतिलकस्य, ख. डा.एस् राधाकृ ष्णः, ग. बालगङ्गाधरतिलकः. घ.
सत्यशोधनम्, ङ. बालगङ्गाधरतिलकः, च. डा.एस् राधाकृ ष्णः, छ. भगवत्गीतायाः,
ज. पञ्चमी, झ. डा.एस् राधाकृ ष्णः ।

2. बालगङ्गाधरतिलकः गीतारहस्यम्
डा. एस्. राधाकृ ष्णः वेदान्तस्य धार्मिकता
सत्यशोधनम् आत्मकथा
महात्मागान्धी ओक्टोबर् २

3. क. बालः + अपि। ख. पराजितः + अपि। ग. ततः + अपि।
4. क. नृपोत्तमः। ख. नरोत्तमः। ग. सर्वोत्तमः।
5. क. राष्ट्रपतिः। ख. कु लपतिः । ग. राज्यपालकः ।

6.. क. भोजनाय पायसात् ऋते अन्यत् सर्वं अस्ति ।
ख. स्यूते पुस्तकात् ऋते अन्यत् सर्वं अस्ति ।
ग. आपणे पुष्पात् ऋते अन्यत् सर्वं अस्ति ।

7. ए.पि जे अब्दुल् कलाम्।

ए.पि.जे. अब्दुल् कलाम् महोदयः 1931 तमे वर्षे ओक्टोबर् मासस्य 15 तमे दिने
तमिल्नाट् राज्ये रामेश्वरं ग्रामे जनिमलभत । तस्य पितरौ जैनुलुब्दीन् आषियम्मा च।
सः भारतस्य राष्ट्रपतिः आसीत्।तेन भारतरत्नम्,पद्मविभूषण्,पद्मभूषण् पुरस्काराः प्राप्ताः।
सः 2015 तमे वर्षे जूलै मासस्य 27 तमे दिने मृत्युं प्राप ।

18

Page 19

षष्ठः पाठः
रागसुधारस...।
1. कोष्ठकात् समुचितमुत्तरं चित्वा लिखत।
क) " एन्तरो महानुभावुलु" इति कीर्तनं कस्मिन् रागे निबद्धम्?
(भूपालरागे, हिन्दोलरागे, श्रीरागे)
ख) सङ्गीतविद्यायाः नामान्तरं किम्?
(धनुर्विद्या, गान्धर्वविद्या, वास्तुविद्या)
ग) तञ्जावूर् देशाधिपः कः?
(त्यागराजस्वामी, शरभोजी, षट्कालगोविन्दमारार्)
घ) " एन्तरो महानुभावुलु" इति कीर्तनं कं प्रकीर्त्य आलपति स्म?
(त्यागराजस्वामिनं, षट्कालगोविन्दमारारं , शरभोजिनं)
ङ) त्यागराजेन विरचिता हिन्दोलरागनिबद्धा कृ तिः कस्यां भाषायां आसीत् ?
(कन्नटभाषायां, तेलुगुभाषायां, मलयालभाषायां)
छ) त्यागराजं द्रष्टुमागतः के रलीयसंगीतज्ञः कः?
(षट्कालगोविन्दमारार्, शरभोजी, स्वातितिरुनाल्)
2.. यथोचितं योजयत ।
शरभोजी समर्थः
सामजवरगमन के रलीयसंगीतज्ञः
त्यागराजः तञ्जावूर् देशाधिपः
विशारदः हिन्दोलम्
षट्कालगोविन्दमारार् नादोपासकः

3. उदाहरणानुसारं विश्लेषयत।
उदा- तेनैव - तेन + एव ।
क. अनेनैव ------+ -----।
ख. के नैव ------+ -----।
उदा- के यम् - का + इयम् ।
ग. सेयम् - ------+ -----।

19

Page 20

4. अधोदत्तेषु वाक्येषु क्त्वान्त-ल्यबन्त- तुमुन्नन्त पदानि चित्वा लिखत ।
क. महाराजस्य आदेशं श्रुत्वा अपि त्यागराजः राजप्रशस्तिपरां कृ तिं विरच्य प्रदातुं सन्नद्धो
नाभवत् ।
ख. दिनेशः विद्यालयं गत्वा कक्ष्यायाम् उपविश्य पुस्तकं पठितुम् आरभत ।
ग. शिशोः रोदनं श्रुत्वा माता प्रकोष्टं प्रविश्य लालयितुम् आरभत।

उत्तराणि।

1. क. श्रीरागे ख. गान्धर्वविद्या, ग. शरभोजी, घ.षट्कालगोविन्दमारारं , ङ. तेलुगुभाषायां
च. षट्कालगोविन्दमारार् ।
2. शरभोजी तञ्जावूर् देशाधिपः
सामजवरगमन हिन्दोलम्
त्यागराजः नादोपासकः
विशारदः समर्थः
षट्कालगोविन्दमारार् के रलीयसंगीतज्ञः

3. क. अनेन+ एव । ख. के न+ एव । ग. सा + इयम् ।

4.
क्त्वान्तम् ल्यबन्तम् तुमुन्नन्तम्
क. श्रुत्वा विरच्य प्रदातुं
ख. गत्वा उपविश्य पठितुम्
ग. श्रुत्वा प्रविश्य लालयितुम्

20

Page 21

सप्तमः पाठः
काव्यमुक्तावलिः ।
1. कोष्ठकात् समुचितमुत्तरं चित्वा लिखत।
क) कविकु लगुरुः कः?
(कालिदासः, भासः, व्यासः)
ख) किरातार्जुनीयस्य कर्ता कः?
(श्रीहर्षः, भारविः, माघः)
ग) कु मारसम्भवस्य प्रणेता कः ?
(कालिदासः, भासः, भारविः)
घ) "लीलाकमलपत्राणि गणयामास" का गणयामास ?
(सीता, दमयन्ती, पार्वती)
ङ) उपमा कालिदासस्य भारवेः -----------।
(पदलालित्यं, अर्थगौरवम्, अलङ्कारवैभवम्)
च) माघम् इति कस्य महाकाव्यस्य नामान्तरं भवति ?
(रघुवंशस्य, नैषधीयचरितस्य, शिशुपालवधस्य)
छ) --------- विद्वदौषधम् ।
(माघम्, नैषधम्, रघुवंशम्)
ज) चेदिराजः कः ?
(नलः, दुर्योधनः, शिशुपालः)
2. अधोदत्तं श्लोकं पठित्वा उत्तराणि लिखत ।
वाच्यस्त्वया मद्वचनात् स राजा
वह्नौ विशुद्धामपि यत्समक्षम् ।
मां लोकवादश्रवणादहासीः
श्रुतस्य किं तत्सदृशं कु लस्य ? ।।
(क) अस्मिन् पद्ये क्रियापदं किम् ?
(ख) "मद्वचनात् सः वाच्यः"- के न वाच्यः ?
(ग) अक्ष्णोः समीपं इत्यस्य एकपदं लिखत ?
(घ) विशुद्धामपि - पदच्छेदं कु रुत ।

21

Page 22

3.अधोदत्तं श्लोकं पठित्वा उत्तराणि लिखत ।
इमामहं वेद न तावकीं धियं
विचित्ररूपा खलु चित्तवृत्तयः ।
विचिन्तयन्त्या भवदापदं परां
रुजन्ति चेतः प्रसभं ममाधयः ।।
(क) चित्तवृत्तयः कीदृशाः भवन्ति ?
(ख) श्लोकात् एकं क्रियापदं चित्वा लिखत ?
(ग) इमामहं - इति पदस्य पदच्छेदं लिखत
(घ) मनः इत्यर्थे प्रयुक्तं पदम् किम् ?

4.अधोदत्तं श्लोकं पठित्वा उत्तराणि लिखत
एवं वादिनि देवर्षौ
पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि
गणयामास पार्वती ।।
(क) पार्वती किं गणयामास ?
(ख) अस्मिन् पद्ये क्रियापदं किम् ?
(ग) पार्वती पितुः पार्श्वे कथं स्थितवती ?
(घ) रेखाङ्कितपदं विश्लेषयत ।

5.पट्टिकां पूरयत ।
कृ तिः कर्ता कथापात्रम्

रघुवंशम् .................................. सीता
.................................. कालिदासः पार्वती

नैषधीयचरितम् श्रीहर्षः ..................................

किरातारजुनीयम् .................................. द्रौपती
.................................. माघः भटस्त्री

22

Page 23

उत्तराणि।

1. क. कालिदासः, ख. भारविः, ग. कालिदासः, घ. पार्वती, ङ. अर्थगौरवम्
च. शिशुपालवधस्य, छ. नैषधम्, ज. शिशुपालः ।

2. क. अहासीः, ख. त्वया, ग. समक्षम्, घ. विशुद्धाम् + अपि ।

3. क. विचित्ररूपाः (ख) रुजन्ति, (ग) इमाम् + अहम्,(घ) चेतः।

4. (क) लीलाकमलपत्राणि, (ख) गणयामास,(ग) अधोमुखी (घ) पितुः + अधोमुखी ।

5.
कृ तिः कर्ता कथापात्रम्

रघुवंशम् कालिदासः सीता

कु मारसम्भवम् कालिदासः पार्वती

नैषधीयचरितम् श्रीहर्षः दमयन्ती

किरातारजुनीयम् भारविः द्रौपती

शिशुपालवधम् माघः भटस्त्री

23

Page 24

अष्ठमः पाठः
शिवास्ते सन्तु पन्थानः।

1. कोष्ठकात् समुचितमुत्तरं चित्वा लिखत।

(क) अभिज्ञानशाकु न्तलस्य कर्ता कः ?
(श्रीहर्षः, कालिदासः, व्यासः)
(ख) अभिज्ञानशाकु न्तले कति अङ्काः सन्ति ?
(पञ्च, षट्, सप्त)
(ग) अभिज्ञानशाकु न्तलस्य इतिवृत्तं कस्मात् ग्रन्थात् स्वीकृ तम् ?
(महाभारतात्, रामायणात्, भागवतात्)
(घ) पुरुवंशराजा कः ?
(दुर्योधनः, दुष्यन्तः, युधिष्ठिरः)
(ङ) अभिज्ञानशाकु न्तलस्य मुख्यरसः कः ?
(हास्यः, करुणः, शृङ्गारः)

2.सम्बोधनारूपं लिखत ।
(क) "वत्से! त्वं इतः पतिगृहं गच्छ" ।
(ख) "तात! इत एव किं प्रियसख्यौ निवृत्तिष्येते" ।

3. पट्टिकां पूरयत ।

कृ तिः कर्ता विभागः

अभिज्ञानशाकु न्तलम् कालिदासः ………………………………

…………………………………… माधवविद्यारण्यस्वामी महाकाव्यम्

महाभारतम् …………………………………… इतिहासः

कनकधारास्तवम् श्रीशङ्कराचार्यः ……………………………………

24

Page 25

4. सूचनानुसारं कण्वमहर्षेः स्वभावं लिखत ।

सूचनाः- कालिदासः ------अभिज्ञानशाकु न्तलम् ------- चतुर्थोङ्कः ------ दुष्यन्तस्य
उपदेशं ---- त्रिकालज्ञानी ----------- आत्मीयभौतिककार्ये निष्णातः।

उत्तराणि।

1. (क) कालिदासः, (ख) सप्त,(ग) महाभारतात्, (घ) दुष्यन्तः,(ङ) शृङ्गारः ।
2. (क) वत्से। (ख) तात।

3.
कृ तिः कर्ता विभागः

अभिज्ञानशाकु न्तलम् कालिदासः नाटकम्

शङ्करदिग्विजयम् माधवविद्यारण्यस्वामी महाकाव्यम्

महाभारतम् व्यासः इतिहासः

कनकधारास्तवम् श्रीशङ्कराचार्यः स्तोत्रकाव्यम्

4. महाकवि कालिदासेन विरचितं नाटकं भवति अभिज्ञानशाकु न्तलम्।सप्त अङ्कयुक्तस्य
अस्य नाटकस्य चतुर्थोङ्के प्रधानकथापात्रं भवति कण्वमहर्षिः ।शकु न्तलायाः
पतिगृहगमनवेलायां दुष्यन्ताय तेन कृ तः उपदेशः अतिप्रसिद्धः भवति । त्रिकालज्ञानी सः
आत्मीयभौतिक कार्येषु अपि निष्णातः अभवत् ।

25

Page 26

नवमः पाठः
ईशोपदेशः।
1. कोष्ठकात् समुचितमुत्तरं चित्वा लिखत।
(क) क्रिस्तुभागवतस्य कर्ता कः ? (पी.सी.देवस्य, वेदव्यासः, अश्वघोषः)
(ख) येशुदेवः पर्वतोपरिस्थित्वा कृ ताः उपदेशाः के न नाम्ना प्रसिद्धाः ?
(सूक्ति प्रभाषणम्, गिरिप्रभाषणम्, धर्मप्रभाषणम् )
(ग) क्रिस्तुभागवते कति सर्गाः सन्ति ? (विंशति, त्रिंशत्, त्रयस्त्रिंशत्)
(घ) क्रिस्तुभागवतं कस्मिन् काव्यविभागे अन्तर्भवति ?
(महाकाव्ये, चरित्रकाव्ये, इतिहासकाव्ये)
(ङ) नाकं इत्यस्य समानार्थकं पदं किम् ? (भूमिः, स्वर्गः, सर्पः)
2. श्लोकं पठित्वा गद्यक्रमं पूरयत ।
(क) ददाति भिक्षां तु भवान् यदा तदा
न कारयेत्तूर्यनिनादमग्रतः ।
नृणां विलोकं स्तवनं च लिप्सवः
सभासु रथ्यासु च दाम्भिकाः यथा ।।
यदा भवान् तु --------ददाति तदा यथा नृणां विलोकं -------च लिप्सवः
दाम्भिकाः ------रथ्यासु च ------- अग्रतः न कारयेत् ।
(ख) यूयं स्वधर्माचरणं परेषा-
मालोकनार्थं जनतासमक्षम् ।
मा कर्ष्ट नाकस्थपितुर्न लभ्यो
यद्येवमुत्तुङ्गकृ पाप्रसादः ।।

यूयं -------परेषां आलोकनार्थं ------मा कार्ष्ट ।एवं यदि------ उत्तुङ्गकृ पाप्रसादः न
-----।
3. अधोदत्तं श्लोकं पठित्वा उचितमाशयं चित्वा लिखत ।
यदा पुनः प्रार्थयसे तदा गृहं
प्रविश्य बद्ध्वा च कवाटमेककः।
कु रु स्वतातं प्रति याचनां रहः

पिता फलं दास्यति गुप्तदर्शकः ।।

26

Page 27

(क) प्रदर्शनार्थम् ईश्वरभजनं कु र्वन्तः कपटभक्ताः भवन्ति।
(ख) धर्माचरणं आत्मनिर्वृर्त्यर्थं भवेत् ।
(ग) गुप्तपरमतत्वप्रदर्शकः ईशः नूनं फलं दास्यति ।
4. "दक्षिणहस्तेन कृ तं भिक्षादानं वामहस्तः मा जानातु" इत्याशयप्रतिपादकं श्लोकं चित्वा
लिखत ।
(क) ददाति भिक्षां तु भवान् यदा तदा
न कारयेत्तूर्यनिनादमग्रतः ।
नृणां विलोकं स्तवनं च लिप्सवः
सभासु रथ्यासु च दाम्भिकाः यथा ।।
(ख) भिक्षा त्वया दक्षिणहस्तदत्ता
मा ज्ञायतां वामकरेण ते सा।
दानस्य चैवं निभृतं कृ तस्य
पिता फलं दास्यति गुप्तदर्शी ।।

उत्तराणि।
1. (क)पी.सी.देवस्य (ख) गिरिप्रभाषणम् (ग) त्रयस्त्रिंशत् (घ)महाकाव्ये (ङ) स्वर्गः।
2. (क) यदा भवान् तु भिक्षां ददाति तदा यथा नृणां विलोकं स्तवनं च लिप्सवः
दाम्भिकाः सभासु रथ्यासु च तूर्यनिनादम् अग्रतः न कारयेत् ।

(ख) यूयं स्वधर्माचरणं परेषां आलोकनार्थं जनतासमक्षं मा कार्ष्ट । एवं यदि
नाकस्थपितुः उत्तुङ्गकृ पाप्रसादः न लभ्यः।
3. (ग) गुप्तपरमतत्वप्रदर्शकः ईशः नूनं फलं दास्यति ।
4.
(ख) भिक्षा त्वया दक्षिणहस्तदत्ता
मा ज्ञायतां वामकरेण ते सा।
दानस्य चैवं निभृतं कृ तस्य
पिता फलं दास्यति गुप्तदर्शी ।।

27

Page 28

दशमः पाठः
प्राप्य वरान् निबोधत ।
1. कोष्ठकात् समुचितमुत्तरं चित्वा लिखत।
क) विश्वजिन्नाम यागं कः चकार ?
(विश्वामित्रः, वाजस्रवसः, कण्वः)
ख) यमनचिके त संवादः कस्मिन् उपनिषदि प्रतिपादितम् ?
(कठोपनिषदि, मुण्ठकोपनिषदि, तैत्तिरियोपनिषदि)
ग) "त्वां मृत्यवे ददामि " कस्य वचनमिदम् ?
(नचिके तसः, यमदेवस्य, वाजस्रवसस्य)
घ) "उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत" - इति वाक्यं कस्मिन् उपनिषदि वर्तते ?
(कठोपनिषदि, मुण्ठकोपनिषदि, तैत्तिरियोपनिषदि)
ङ) वाजस्रवसः किं नाम यागं चकार ?
(विश्वजित्, पुत्रकामेष्ठि, अश्वमेधम्)
2. श्लोकं पठित्वा आशयं चित्वा लिखत ।
१. उत्तिष्ठत जाग्रत
प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया
दुर्गं पथस्तत्कवयो वदन्ति ।।
(क) अज्ञानिनः निरङ्कुशाः भवन्ति ।
(ख) स्वयं पण्डितंमन्याः अज्ञाः कु पन्थानं प्राप्नुवन्ति ।
(ग) अज्ञानं दूरीकर्तुं श्रेष्ठान् उपगच्छन्तु ।
२. अविद्यायामन्तरे वर्तमानाः
स्वयं धीराः पण्डितंमन्यमानाः।
दन्द्रम्यमाणाः परियन्ति मूढा
अन्धेनैव नीयमानाः यथान्धाः
(क) अज्ञानं दूरीकर्तुं श्रेष्ठान् उपगच्छन्तु ।
(ख) अज्ञानिनः निरङ्कुशाः भवन्ति ।
(ग) स्वयं पण्डितंमन्याः अज्ञाः कु पन्थानं प्राप्नुवन्ति ।

28

Page 29

3 अधोदत्तेभ्यः वेदाः वेदाङ्गानि उपनिषदश्च विविच्य पट्टिकां रचयतु ।
ऋक् , निरुक्तम्, कठम्, छन्दः, सामः, माण्डूक्यम्, अथर्वः, तैत्तिरीयम्, शिक्षा,
ईशम्, व्याकरणम्, यजुः ।

वेदाः वेदाङ्गानि उपनिषदः

उत्तराणि

1. क. वाजस्रवसः, ख. कठोपनिषतदि, ग. वाजस्रवसस्य, घ. कठोपनिषदि, ङ.
विश्वजित्।
2.
१.अज्ञानं दूरीकर्तुं श्रेष्ठान् उपगच्छन्तु ।
२.स्वयं पण्डितंमन्याः अज्ञाः कु पन्थानं प्राप्नुवन्ति ।

3.
वेदाः वेदाङ्गानि उपनिषदः

ऋक् छन्दः कठम्
सामः शिक्षा माण्डूक्यम्
अथर्वः व्याकरणम् तैत्तिरीयम्
यजुः निरुक्तम् ईशम्

*******************

29

Document Details

Board / OrgKerala Board
ExamClass 10
TypeNotes
Pages29
Updated30 Apr 2026